४२

देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेना-स्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछंस्तं रुद्रा आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछंस्तमादित्या आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछंस्तं विश्वे देवा आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदातित्तु तमर्जाता अति ह वा एनमर्जते

स्वर्गं लोकमभि य एवं वेद ४२