४१

इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरा-त्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्यासौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमनस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो

बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद ४१