दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपि-यन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायम्प्रातरग्निहोत्रं जुह्वति सायम्प्रातर्व्रतम्प्रयछन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतम्प्रयछन्ति स्वाहाकारमे-वान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये सामिधेनीरन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजाउषधिभिस्तम्भिषज्यन्ति यम्भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानिच भेषजानि तानि सर्वाण्यग्निष्टोमम-पियन्त्यग्निमातिथ्ये मन्थन्त्यग्निं चातुर्मास्येष्वातिथ्यमेवानु चातुर्मास्यान्यग्नि-ष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये केच पशु-बन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना
दधिघर्मे दधिघर्ममेवान्विळादधोऽग्निष्टोममप्येति ४०