देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्! यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गायत्र्येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतु-र्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा
समुद्रं स्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति ३९