स्वादुष्किलायम्मधुमाँ उतायमितीन्द्र स्यैन्द्री रनुपानीयाः
शंसत्येताभिर्वा इन्द्र
-स्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम्माद्यन्तीव
वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा
स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य
दुरिष्टम्पाति वरुणः स्विष्टं तयो-रुभयोरेव शान्त्यै
विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शन्सति यथा वै मत्यमेवं
यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं
कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं
कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति
प्राजापत्यां शंसति प्रजा वै तौतुः प्रजामेवास्म
एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना
वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत
जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः
प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न
इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी
करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा
जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र
इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते
तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं
तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः
शुभयद्भिरृक्वभिरित्याग्निमारुतमुक्थं
शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति ३८
३