३७

देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचन्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पित्र्यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पित्र्याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पित्र्याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति

तस्माद्व्याहावमेव शंस्तव्यम् ३७