जातवेदस्यं शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगछत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्यापो-हिष्ठीयम्शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजा-स्यैवामन्यत तासु वा अहिना बुÞयेन परोक्षात्तेजोऽदधादेष ह वा अहिर्बुÞयो यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति ३६