३५

वैश्वानरीयेणाग्निमारुतम्प्रतिपद्यते वैश्वानरो वा एतद्रे तः सिक्तम्प्राच्यावयत्तस्मा-द्वैश्वानरीयेणाग्निमारुतम्प्रतिपद्यतेऽनवानम्प्रथम ऋक्शंस्तव्याग्नीन्वा एषोऽर्चीं-ष्यशान्ताउ प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरत्य-धीयन्नुपहन्यादन्यं विवक्तारमिछेत्तमेव तत्सेतुं कृत्वा तरति तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता मारुतं शंसति मरुतो ह वा एतद्रे तः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति यज्ञायज्ञा वो अग्नये देवो वो द्र विणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपञ्च शंसति तस्मा-न्मध्ये योनिर्धृता यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं

दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ३५