तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रे तसः प्रथम-मुददीप्यत तदसावादित्योऽभवद्यद्द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभव-द्यानि परिक्षाणान्यासंस्ते कृष्णा पसवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्री शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रि य प्रजाभिरिति ब्रूयान्न रुद्रे त्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय
सर्वमायुरेति य एवं वेद सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तन्नमस्यति ३४