पशुपतिसम्भवः

ते तम् ऐछन् य एनम् आरिष्यत्य्, एतम् अन्योन्यस्मिन् नाविन्दंस्, तेषां या एव घोरतमास् तन्व आसंस्, ता एकधा समभरंस्, ताः सम्भृता एष देवो ऽभवत्, तद् अस्यैतद् भूतवन् नाम । भवति वै स योऽस्यैतद् एवं नाम वेद ॥ तं देवा अब्रूवन्न् - अयं वै प्रजापतिर् आकृतम् अकर्, इमं विध्येति ।

स तथेत्य् अब्रवीत्, स वै वो वरं वृणा इति । वृणीष्वेति । स एतम् एव वरम् अवृणीत - पशूनाम् आधिपत्यम्। तद् अस्यैतत् पशुमन् नाम। पशुमान् भवति यो ऽस्यैतद् एवं नाम वेद ।