तम् अभ्यायत्याविध्यत्, स विद्ध ऊर्ध्व उदप्र+++(प्ल)+++वत । तम् एतम् मृग इत्य् आचक्षते । य उ एव मृगव्याधः स उ एव स, या रोहित् सा रोहिणी, यो एवेषुस् त्रिकाण्डा स एवेषुस् त्रिकाण्डा । तद् वा इदम् प्रजापते रेतः सिक्तम् अधावत्, तत् सरो ऽभवत् +++(=आकाशगङ्गा)+++।
ते देवा अब्रुवन् - मेदम् प्रजापते रेतो दुषद् इति । यद् अब्रुवन् - मेदम् प्रजापते रेतो दुषद् इति, तन् मादुषम् अभवत् । तन् मादुषस्य मादुषत्वम् । मादुषं ह वै नामैतद् यन् मानुषं +++(नाम पदार्थः)+++ । तन् मादुषं सन् मानुषम् इत्य् आचक्षते परोक्षेण, परोक्ष-प्रिया इव हि देवाः+++(५)+++।