आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति घ्नौति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजत्यवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनम्पुनः सम्भावयन्ति पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रू पं यदेता देवता अग्निः सोमो विष्णुरिति प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद्वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति
ह स्माह तेनैव रूपेण तस्माद्वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति ३२