वैश्वदेवं शंसति यथा वै प्राज एवं वैश्वदेवं तद्यथान्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्याम्पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्य-नरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्या-म्पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणा हि तानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थन्देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजञानामुक्थं सर्व एनम्पञ्चजना विदुरैनम्पञ्चिन्यै जनतायै हविनो गछन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमाद-त्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयम्पितेयम्पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्याम्पञ्चजना अदितिर्जात-मदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृसन्भूमिम्परिदध्यत्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवम्म इति
वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति ३१