२९

ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावित्र्यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं

शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति २९