२८

ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गायत्र्यभवत्त्र्यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय-त्र्यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गायत्र्यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गायत्र्यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गायत्र्यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गायत्र्य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं

विदुष इत्येकं हि सत्तत्त्रेधाभवत् २८