२८

विश्वास-प्रस्तुतिः

ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति ।

Haug

(How Triṣṭubh and Gāyatrī obtained their proper number of syllables.)

The two other metres said to the Gāyatrī, “That which thou hast obtained of us, viz., our syllables, should be restored to us.”

मूलम्

ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति ।

विश्वास-प्रस्तुतिः

नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ।

Haug

The Gāyatri answered, “No.” (They said)

मूलम्

नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ।

विश्वास-प्रस्तुतिः

ते देवेषु प्रश्नमैताम् ।

Haug

They went to ask the gods.

मूलम्

ते देवेषु प्रश्नमैताम् ।

विश्वास-प्रस्तुतिः

ते देवा अब्रुवन्यथावित्तमेव न इति ।

Haug

The gods said, “As far as the right of possession is concerned, they are yours.”

मूलम्

ते देवा अब्रुवन्यथावित्तमेव न इति ।

विश्वास-प्रस्तुतिः

तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ।

Haug

Thence it comes, that even here (in affairs of daily life), people say when they quarrel, “as far as the right of possession is concerned, this is ours."[5]

Haug - Notes

[5]This remark here is only made to illustrate a phrase which seems to have been very common in the Vedic Saṁskṛit यथावित्तं नः

मूलम्

तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ।

विश्वास-प्रस्तुतिः

ततो वा अष्टाक्षरा गायत्र्यभवत्त्र्यक्षरा त्रिष्टुबेकाक्षरा जगती ।

Haug

Hence the Gāyatrī became possessed of eight syllables (for she did not return the four which she had taken from the others), the Triṣṭubh had three, and the Jagatī only one syllable.

मूलम्

ततो वा अष्टाक्षरा गायत्र्यभवत्त्र्यक्षरा त्रिष्टुबेकाक्षरा जगती ।

विश्वास-प्रस्तुतिः

सा ऽष्टाक्षरा गायत्री प्रातःसवनमुदयच्छत् ।

Haug

The Gāyatrī lifted the morning libation up (to the gods);

मूलम्

सा ऽष्टाक्षरा गायत्री प्रातःसवनमुदयच्छत् ।

विश्वास-प्रस्तुतिः

नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुम् ।

Haug

but the Triṣṭubh was unable to lift up the midday libation.

मूलम्

नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुम् ।

विश्वास-प्रस्तुतिः

तां गायत्र्यब्रवीदायान्यपि मे ऽत्रास्त्विति ।

Haug

The Gāyatrī said to her, “I will go up (with the midday libation); let me have a share in it.

मूलम्

तां गायत्र्यब्रवीदायान्यपि मे ऽत्रास्त्विति ।

विश्वास-प्रस्तुतिः

सा तथेत्यब्रवीत्त्रिष्टुप्तां वै मैतैरष्टाभिरक्षरैरुपसंधेहीति ।

Haug

The Triṣṭubh consented, and said, “Put upon me (who consists of three syllables), these eight syllables.”

मूलम्

सा तथेत्यब्रवीत्त्रिष्टुप्तां वै मैतैरष्टाभिरक्षरैरुपसंधेहीति ।

विश्वास-प्रस्तुतिः

तथेति तामुपसमदधात् ।

Haug

The Gāyatrī consented, and put upon her (eight syllables).

मूलम्

तथेति तामुपसमदधात् ।

विश्वास-प्रस्तुतिः

एतद्वै तद्गायत्र्यै मध्यंदिने यन्मरुत्वतीयस्योत्तरे प्रतिपदो यश्चानुचरः ।

Haug

That is the reason that at the midday libation the two last verses of the triplet at the beginning of the Marutvatîya Śastra (the first verse being in the Anuṣṭubh metre), and its sequel (the anuchara triplet) belong to the Gāyatrī.

मूलम्

एतद्वै तद्गायत्र्यै मध्यंदिने यन्मरुत्वतीयस्योत्तरे प्रतिपदो यश्चानुचरः ।

विश्वास-प्रस्तुतिः

सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदयच्छत् ।

Haug

After having obtained thus eleven syllables, she lifted the midday libation up (to heaven).

मूलम्

सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदयच्छत् ।

विश्वास-प्रस्तुतिः

नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुम् ।

Haug

The Jagatī which had only one syllable, was unable to lift the third libation (up).

मूलम्

नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुम् ।

विश्वास-प्रस्तुतिः

तां गायत्र्यब्रवीदायान्यपि मे ऽत्रास्त्विति ।

Haug

The Gāyatrī said to her, “I will also go up (with thee); let me have a share in this (libation).”

मूलम्

तां गायत्र्यब्रवीदायान्यपि मे ऽत्रास्त्विति ।

विश्वास-प्रस्तुतिः

सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति ।

Haug

The Jagatī consented (and said), “Put upon me those eleven syllables (of the Gāyatrī and Triṣṭubh joined).

मूलम्

सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति ।

विश्वास-प्रस्तुतिः

तथेति तामुपसमदधात् ।

Haug

She consented and put (those eleven syllables) upon the Jagatī.

मूलम्

तथेति तामुपसमदधात् ।

विश्वास-प्रस्तुतिः

तद्वै तद्गायत्र्यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः ।

Haug

That is the reason, that, at the evening libation, the two latter verses of the triplet with which the Vaiśvadeva Śastra commences (pratipad), and its sequel (anuchara) belong to the Gāyatrī.

मूलम्

तद्वै तद्गायत्र्यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः ।

विश्वास-प्रस्तुतिः

सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् ।

Haug

Jagatī, after having obtained twelve syllables, was able to lift the evening libation up (to heaven).

मूलम्

सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् ।

विश्वास-प्रस्तुतिः

ततो वा अष्टाक्षरा गायत्र्यभवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती ।

Haug

Thence it comes that the Gāyatrī obtained eight, the Triṣṭubh eleven, and the Jagatī twelve syllables.

मूलम्

ततो वा अष्टाक्षरा गायत्र्यभवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती ।

विश्वास-प्रस्तुतिः

सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेद ।

Haug

He who has such a knowledge, prospers through all metres which are of equal strength and of the same quality.

मूलम्

सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेद ।

विश्वास-प्रस्तुतिः

एकं वै सत्तत्त्रेधा ऽभवत् ।

Haug

What was one, that became three-fold.[6]

Haug - Notes

[6]This remark refers to the fact that the Gâyatrî, which consisted originally only of eight syllables, consists of three times eight, i.e., twenty-four.

मूलम्

एकं वै सत्तत्त्रेधा ऽभवत् ।

विश्वास-प्रस्तुतिः

तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा ऽभवत् ।

Haug

Thence they say, only he who has this knowledge, that what was one, became three-fold, should receive presents.

मूलम्

तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा ऽभवत् ।