सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमम्मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृभ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभां छन्दसा-मदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यं राध्नोति य एवं वेदाथ यन्मुखेन सम-गृभ्णात्तत्तृतीयसवनमभवत्तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरमवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्यां सर्वैः सवनैः समावद्वीर्यैः
समावज्जामिभी राध्नोति य एवं वेद २७