ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गछति स्वस्ति पुनरागछति सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपस-मगृभ्णात्तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमछि-दत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासित्स सर्पो निर्दंश्यभवत्सहसः स्वाजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा
तथेषुरभवत् २६