२६

विश्वास-प्रस्तुतिः

ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति ।

Haug

(Gāyatrī successful; Wounded when Robbing the Soma. What became of her nail cut off, &c.)

The gods said to the Gāyatrī, “Fetch thou the king Soma.”

मूलम्

ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति ।

विश्वास-प्रस्तुतिः

सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति ।

Haug

She consented, but said, “During the whole of my journey (up to the celestial world), you must repeat the formula for wishing a safe passage for me.”

मूलम्

सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति ।

विश्वास-प्रस्तुतिः

तथेति ।

Haug

The gods consented.

मूलम्

तथेति ।

विश्वास-प्रस्तुतिः

सोदपतत् ।

Haug

She flew up.

मूलम्

सोदपतत् ।

विश्वास-प्रस्तुतिः

तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेति ।

Haug

The gods repeated throughout her passage the formula for wishing a safe passage, viz., pra chā chā, go, and come back, and come back.

मूलम्

तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेति ।

विश्वास-प्रस्तुतिः

एतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति ।

Haug

For the words, pra chā chā,[3] signify, that the whole journey will be made in safety.

Haug - Notes

[3]This formula is used for wishing to a friend who is setting out on a journey a safe passage and return in safety.

मूलम्

एतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति ।

विश्वास-प्रस्तुतिः

तद्यो ऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति ।

Haug

He who has a friend (who sets out on a journey) ought to repeat this formula;

मूलम्

तद्यो ऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति ।

विश्वास-प्रस्तुतिः

स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति ।

Haug

he then makes his passage in safety, and returns in safety.

मूलम्

स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति ।

विश्वास-प्रस्तुतिः

सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात् ।

Haug

The Gāyatrī, when flying up, frightened the guardians of Soma, and seized him with her feet and bill, and (along with him) she also seized the syllables which the two other metres (Jagatī and Triṣṭubh) had lost.

मूलम्

सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात् ।

विश्वास-प्रस्तुतिः

तस्या अनु विसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत् ।

Haug

Kṛiśānu, (one of) the guardians[4] of the Soma, discharged an arrow after her, which cut off the nail of her left leg.

Haug - Notes

[4]Sâyaṇa here quotes an Adhvaryu mantra containing the names of the guardians of the Soma, among whom one is Kṛiśânu; स्नानभ्राजांघारे बभारे हस्त सुहस्त कृशाने एते वः सोमकषणस्तान् रक्षध्वम् मा वो दभन, See Vâjasanēyi Saṁhitâ, 4, 27, with Mahidhara’s commentary on it (p. 117 in Weber’s edition).

मूलम्

तस्या अनु विसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत् ।

विश्वास-प्रस्तुतिः

तच्छल्यको ऽभवत् ।

Haug

This became a porcupine.

मूलम्

तच्छल्यको ऽभवत् ।

विश्वास-प्रस्तुतिः

तस्मात्स नखमिव ।

Haug

(The porcupine, having thus sprung from the nail which was cut off),

मूलम्

तस्मात्स नखमिव ।

विश्वास-प्रस्तुतिः

यद्वशमस्रवत्सा वशा ऽभवत् ।

Haug

the Vaśā (a kind of goat) sprang from the marrow (vasā) which dripped from the nail (cut off).

मूलम्

यद्वशमस्रवत्सा वशा ऽभवत् ।

विश्वास-प्रस्तुतिः

तस्मात्सा हविरिव ।

Haug

Thence this goat is a (suitable) offering.

मूलम्

तस्मात्सा हविरिव ।

विश्वास-प्रस्तुतिः

अथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत् ।

Haug

The shaft of the arrow with the point (discharged by Kṛiśānu) became a serpent which does not bite (dundubha by name).

मूलम्

अथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत् ।

विश्वास-प्रस्तुतिः

सहसः स्वाजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सो ऽन्धाहिः ।

Haug

From the vehemence with which the arrow was discharged, the snake svaja was produced; from the feathers, the shaking branches which hang down (the airy roots of the Aśvattha); from the sinews (with which the feathers were fastened on the shaft) the worms called gaṇḍūpada, from the fulmination (of the steel) the serpent andhāhi.

मूलम्

सहसः स्वाजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सो ऽन्धाहिः ।

विश्वास-प्रस्तुतिः

सो सा तथेषुरभवत् ।

Haug

Into such objects was the arrow (of Kṛiśānu) transformed.

मूलम्

सो सा तथेषुरभवत् ।