२५

सोमो वै राजामुष्मिल्ँलोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथम-यमस्मान्सोमो राजागछेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमा-हरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौ-पर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमछाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमो-दपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता

आहरत् २५