२४

स्तोत्रियं शंसत्यात्मा वै स्तोत्रियस्तम्मध्यमया वाचा शंसत्यात्मानमेव तत्सं-स्कुरुतेऽनुरूपं शंसति प्रजा वा अनुरूपः स उच्चैस्तरामिवानुरूपः शंस्तव्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते धाय्यां शंसति पत्नी वै धाय्या सा नीचैस्तरामिव धाय्या शंस्तव्या प्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति प्रगाथं शंसति स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्या इन्द्र स्य नु वीर्याणी प्र वोचमिति सूक्तां शंसति तद्वा एतत्प्रियमिन्द्र स्य सूक्तं निष्केवल्यं हैरण्य-स्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्र स्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्र स्य प्रियं धाम गछति जयति परमं लोकं य एवं वेद गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँ ल्लभते

गृहानेवैनानाजिगमिषति गृहा हि पशूनाम्प्रतिष्ठा प्रतिष्ठा २४