ऋक्च वा इदमग्रे साम चास्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां ते न प्रति चन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम सम्मितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः पतयो यद्वै तत्सा चामश्च समभवतां तत्सामाभवत्तत्साम्नः सामत्वं सामन्भवति य एवं वेद यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य इति हि निन्दन्ति ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भू-त्वाकल्पेतामाहावाश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च ते यत्पञ्चान्यद्भूत्वा पञ्चान्य-द्भूत्वाकल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति यदु विराजं दशि-नीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्याम्प्रतिष्ठित इत्यात्मा वै स्तो-त्रियः प्रजानुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तं स वा अस्मिंश्च
लोकेऽमुष्मिंश्च प्रजया च पशुभिश्च गृहेषु वसति य एवं वेद २३