ते देवा अब्रुवन्नियं वा इन्द्र स्य प्रिया जावा वावाता प्रासहा नामास्यामेवेछामहा इति तथेति तस्यामैछन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविछन्ते तस्मादु स्त्र्! यनुरात्रम्पत्याविछते ताम्प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमम्पुराषाळा वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पति-स्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मासि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमम्पुराषाळ् इति सेना वा इन्द्र स्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्ति-ष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्य-थैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनं अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुव-न्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरम्-अक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गायत्र्या वा तृष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजास्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति
२२