इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रो ऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्न्
अप्येव नोऽस्तु मघवन्निति तानीक्षतैव २१