२०

विश्वास-प्रस्तुतिः

इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति ।

Haug

(Why the Marutas are Honoured with a separate Śastra.)

Indra, when he was about to kill Vṛitra, said to all the gods, “Stand near me, help me.”

मूलम्

इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति ।

विश्वास-प्रस्तुतिः

तथेति तं हनिष्यन्त आद्रवन्सो ऽवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान्भीषया इति ।

Haug

So they did. They rushed upon Vṛitra to kill him. He perceived they were rushing upon him for the purpose of killing him. He thought, “I will frighten them.”

मूलम्

तथेति तं हनिष्यन्त आद्रवन्सो ऽवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान्भीषया इति ।

विश्वास-प्रस्तुतिः

तानभिप्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्रवन्मरुतो हैनं नाजहुः ।

Haug

He breathed at them, upon which all the gods were flung away and took to flight; only the Marutas did not leave him (Indra);

मूलम्

तानभिप्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्रवन्मरुतो हैनं नाजहुः ।

विश्वास-प्रस्तुतिः

प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त ।

Haug

they exhorted him by saying, “Strike, O Bhagavan! kill (Vṛitra)! show thy prowess!”

मूलम्

प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त ।

विश्वास-प्रस्तुतिः

तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति ।

Haug

This saw a Riṣi, and recorded it in the verse vṛitrasya tvā śvasathād (8, 85, 7), i.e., “all the gods who were associated (with Indra) left him when flung away by the breathing of Vṛitra. If thou keepest friendship with the Marutas, thou wilt conquer in all these battles (with Vṛitra).”

मूलम्

तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति ।

विश्वास-प्रस्तुतिः

सो ऽवेदिमे वै किल मे सचिवा इमे मा ऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति ।

Haug

He (Indra) perceived, “the Marutas are certainly my friends; these (men) love me! well, I shall give them a share in this (my own) celebration (Śastra).”

मूलम्

सो ऽवेदिमे वै किल मे सचिवा इमे मा ऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति ।

विश्वास-प्रस्तुतिः

सो ऽवेदिमे वै किल मे सचिवा इमे मा ऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति ।

Haug

He gave them a share in this celebration. Formerly both (Indra as well as the Marutas) had a place in the Niṣkevalya[27] Śastra. (But to reward their great services he granted them more, viz., a separate Marutvatîya Śastra, &c.). The share of the Marutas (in the midday libation) is, that the Adhvaryu takes the Marutvatîya Graha, and the Hotar repeats the Marutvatîya Pragātha, the Marutvatîya hymn, and the Marutvatîya Nivid.

Haug - Notes

[27]The second Śastra to be repeated by the Hotar at the midday libation.

मूलम्

तानेतस्मिन्नुक्थ आभजदथहैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुः मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयं प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयां निविदं दधाति मरुतां सा भक्तिः ।

विश्वास-प्रस्तुतिः

मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ।

Haug

After having repeated the Marutvatîya Śastra, he recites the Marutvatîya Yājyā. Thus he satisfies the deities by giving them their shares.

मूलम्

मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ।

विश्वास-प्रस्तुतिः

ये त्वा ऽहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति यत्र यत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति ।

Haug

(The Marutvatîya Yājyā is) ye tvāhihatye maghavan (3, 47, 4), i.e., “drink Indra, the Soma juice, surrounded by thy host, the Marutas who assisted thee, O Maghavan, in the battles with the huge serpent (Ahi),” &c. Wherever Indra remained victor in his various engagements, through their assistance, wherever he displayed his prowess, there (in the feast given in his honour) he announced them (the Marutas) as his associates, and made them share in the Soma juice along with him.