इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्र वन्ति हन्तेमान्भीषया इति तानभि प्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति सोऽवेदिमे वै किल मे सचिवा इमे माकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयम्प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयाम्निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति यत्रयत्रैवैभिर्व्यजयत
यत्रयत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रे णैनान्ससोमपीथान्करोति २०