१९

मरुत्वतीयम्प्रगाथं शन्सति पसवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै जनिष्ठा उग्रः सहसे तुरायेति सूक्तम्शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति तत्संजयम्भवति सं च जयति वि च जयत एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोक-स्यागछत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति तस्यार्धाः शस्त्वार्धाः परिशिष्य मध्ये निविदं दधाति स्वर्गस्य हैष लोकस्य रोहो यन्निवित्स्वर्गस्य हैतल्लोकस्याक्रमणं यन्निवि-त्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्याथाभिचरतो यः कामयेत क्षत्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्रं वै निविद्विट्सूक्तं क्षत्रेणैव तद्विशं हन्ति यः कामयेत विशा क्षत्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्रं वै निविद्विट्सूक्तां विशैव तत्क्षत्रं हन्ति य उ कामयेतोभयत एनं विशः पर्यवछिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवछिनत्तीति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य वयः सिन्पर्णा उप सेदुरिन्द्र मित्युत्तमया परिदधाति प्रियमेधा ऋषयो नाधमानाः अप ध्वान्तमूर्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गछेदप हैवास्मात्तल्लुप्यते पूर्धि चक्षुरिति चक्षुषी मरीमृज्येताजरसं ह चक्षुष्मान्भवति य एवं वेद मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा

मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह १९