१८

धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनी-तवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव

आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति १८