१८

विश्वास-प्रस्तुतिः

धाय्याः शंसति ।

Haug

(On the Origin of the Dhāyyās, their Nature and Meaning.)

He recites the Dhāyyās.

मूलम्

धाय्याः शंसति ।

विश्वास-प्रस्तुतिः

धाय्याभिर्वै प्रजापतिरिमाँल्लोकानधयद्यं यं काममकामयत ।

Haug

Prajāpati had (once) sucked up from these worlds everything he desired by means of the Dhāyyās (from dhe, to suck).

मूलम्

धाय्याभिर्वै प्रजापतिरिमाँल्लोकानधयद्यं यं काममकामयत ।

विश्वास-प्रस्तुतिः

तथैवैतद्यजमानो धाय्याभिरेवेमाँल्लोकान्धयति यं यं कामं कामयते य एवं वेद ।

Haug

Thus the sacrificer who has such a knowledge sucks up from these worlds everything he desires.

मूलम्

तथैवैतद्यजमानो धाय्याभिरेवेमाँल्लोकान्धयति यं यं कामं कामयते य एवं वेद ।

विश्वास-प्रस्तुतिः

यदेव धाय्याः३ यत्रयत्र वै देवा यज्ञस्य च्छिद्रं निरजानंस्तद्धाय्याभिरपिदधुस्तद्धाय्यानां धाय्यात्वम् ।

Haug

The nature of the Dhāyyās is, that the gods at a sacrifice, wherever they discovered a breach, covered it with a Dhāyyā; thence they are so called (from dhâ, to put).

मूलम्

यदेव धाय्याः३ यत्रयत्र वै देवा यज्ञस्य च्छिद्रं निरजानंस्तद्धाय्याभिरपिदधुस्तद्धाय्यानां धाय्यात्वम् ।

विश्वास-प्रस्तुतिः

अच्छिद्रेण हास्य यज्ञेनेष्टं भवति य एवं वेद ।

Haug

The sacrifice of him, who has such a knowledge, becomes performed without any breach in it.

मूलम्

अच्छिद्रेण हास्य यज्ञेनेष्टं भवति य एवं वेद ।

विश्वास-प्रस्तुतिः

यद्वेव धाय्याः३ स्यूमहैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादेवमेवैताभिर्यज्ञस्य च्छिद्रं संदधदेति य एवं वेद ।

Haug

As to the Dhāyyās, we sew up with them (every rent in the) sacrifice, just as we sew up (a rent in) a cloth with a pin that it might become mended. A breach in the sacrifice of him who has such a knowledge becomes thus mended.

मूलम्

यद्वेव धाय्याः३ स्यूमहैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादेवमेवैताभिर्यज्ञस्य च्छिद्रं संदधदेति य एवं वेद ।

विश्वास-प्रस्तुतिः

यद्वेव धाय्याः३ तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्याः ।

Haug

As to the Dhāyyās, they are the recitations for the Upasads.[24]

Haug - Notes

[24]See Ait.Br. 1, 23-25.

मूलम्

यद्वेव धाय्याः३ तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्याः ।

विश्वास-प्रस्तुतिः

अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थम् ।

Haug

The verse, Agnir netâ (3, 20, 4), which is addressed to Agni, is the recitation for the first Upasad;

मूलम्

अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थम् ।

विश्वास-प्रस्तुतिः

त्वं सोम क्रतुभिरिति सौम्या द्वितीयोपसत्तस्या एतदुक्थम् ।

Haug

the verse, tvam Soma kratubhiḥ, which is addressed to Soma (1, 91, 2), is the recitation for the second Upasad;

मूलम्

त्वं सोम क्रतुभिरिति सौम्या द्वितीयोपसत्तस्या एतदुक्थम् ।

विश्वास-प्रस्तुतिः

पिन्वन्त्यप इति वैष्णवी तृतीयोपसत्तस्या एतदुक्थम् ।

Haug

the verse pinvanty apo (1, 64, 6), which is addressed to Viṣṇu, is the recitation for the third Upasad.

मूलम्

पिन्वन्त्यप इति वैष्णवी तृतीयोपसत्तस्या एतदुक्थम् ।

विश्वास-प्रस्तुतिः

यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति ।

Haug

Whatever place one may conquer by means of the Soma sacrifice, he who, having such a knowledge, recites the Dhāyyās, conquers (it only) by the several Upasads.

मूलम्

यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति ।

विश्वास-प्रस्तुतिः

तद्धैक आहुस्तान्वो मह इति शंसेदेतां वाव वयं भरतेषु शस्यमानामभिव्यजानीम इति वदन्तः तत्तन्ना ऽऽदृत्यम् ।

Haug

About this last Dhāyyā, some say, the Hotar ought (instead of pinvanty apo) to repeat tân vo maho (2, 34, 11), asserting, “we distinctly know that this verse is repeated (as the third Dhāyyā) among the Bharatas.”

मूलम्

तद्धैक आहुस्तान्वो मह इति शंसेदेतां वाव वयं भरतेषु शस्यमानामभिव्यजानीम इति वदन्तः ।

विश्वास-प्रस्तुतिः

तत्तन्ना ऽऽदृत्यम्

Haug

But this advice is not to be cared for.

मूलम्

तत्तन्ना ऽऽदृत्यम्

विश्वास-प्रस्तुतिः

यदेतां शंसेदीश्वरः पर्जन्यो ऽवर्ष्टोः।

Haug

Should the Hotar repeat that verse (tân vo maho), he would prevent the rain from coming, for Parjanya has power over the rain (but there is no allusion to him in that verse).

मूलम्

यदेतां शंसेदीश्वरः पर्जन्यो ऽवर्ष्टोः।

विश्वास-प्रस्तुतिः

पिन्वन्त्यप इत्येव शंसेत् ।

Haug

But if he repeat the verse pinvanty apo,

मूलम्

पिन्वन्त्यप इत्येव शंसेत् ।

विश्वास-प्रस्तुतिः

वृष्टिवनि पदं मरुत इति मारुतमत्यं न मिहे विनयन्तीति विनीतवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवम् ।

Haug

where there is a pada referring to rain (the third atyam na mihe), and one referring to the Marutas (the storms accompanying the rain, in the first pada), and the word viniyanti, “they carry off,” which refers to Viṣṇu, whose characteristic feature is said to be vichakrame, i.e., he strode (thrice through the universe), which meaning is (also) implied in the term vinayanti,

मूलम्

वृष्टिवनि पदं मरुत इति मारुतमत्यं न मिहे विनयन्तीति विनीतवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवम् ।

विश्वास-प्रस्तुतिः

वाजिनमितीन्द्रो वै वाजी ।

Haug

and (where is further in it) the word, vâjîe, “being laden with booty,” referring to Indra (then the rain would come).

मूलम्

वाजिनमितीन्द्रो वै वाजी ।

विश्वास-प्रस्तुतिः

तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रम् ।

Haug

This verse has four padas, and (as we have seen) refers to rain, the Marutas, Viṣṇu, and Indra, and, though (on account of these allusions just mentioned, and its being in the Jagatī metre) properly belonging to the evening libation, it is repeated at the midday libation.

मूलम्

तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रम् ।

विश्वास-प्रस्तुतिः

सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यस्ते ।

Haug

That verse (pinvanty apo) is in the Jagatī metre; cattle are of the Jagatī nature; the soul of the sacrificer is the midday.

मूलम्

सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यस्ते ।

विश्वास-प्रस्तुतिः

तस्माद्धेदं भरतानां पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति ।

Haug Therefore the cattle of the Bharatas which are at their stables at evening (for being milked) repair at noon to a shed erected for giving all the cows shelter (against heat).
मूलम्

तस्माद्धेदं भरतानां पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति ।

विश्वास-प्रस्तुतिः

सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति ।

Haug

Thus the priest provides cattle for the sacrificer (when he recites this verse as a Dhāyyā at the midday libation).

मूलम्

सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति ।