१७

ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गायत्र्या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानन्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो

माध्यंदिनः पवमानोऽनुशस्तो भावति य एवं वेद १७