१६

इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तम्मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तन्नाजहु-स्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आ स्वापे स्वापिभिरित्यपि ह यद्यैन्द्र मेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वम्मरुत्वतीयम्भवत्येष चेदच्युतः

स्वापिमान्प्रगाथः शस्यत आ स्वापे स्वापिभिरिति १६