१५

इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगछत्स परमामेव परावतमगछदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचम्प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तम्पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मा-त्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्ये-वैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनम्मध्यम्प्रापादयन्तागतेन्द्रे ण यज्ञेन यजते सेन्द्रे ण यज्ञेन राध्नोति य

एवं वेद १५