विश्वास-प्रस्तुतिः
अग्निर्वै देवानां होता ऽऽसीत्तं मृत्युर्बहिष्पवमाने ऽसीदत् ।
Haug
(How Agni, as Hotar of the Gods, Escaped the Meshes of Death.)
When Agni was the Hotar of the Gods, Death sitting in the Bahiṣpavamāna Stotra[8] lurked for him.
Haug - Notes
[8]See page 120.
मूलम्
अग्निर्वै देवानां होता ऽऽसीत्तं मृत्युर्बहिष्पवमाने ऽसीदत् ।
विश्वास-प्रस्तुतिः
सो ऽनुष्टुभा ऽऽज्यं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
Haug
By commencing the Ajya Śastra[9] with the Anuṣṭubh metre, he overcame Death.
Haug - Notes
[9]See the hymn: pra vo devâya agnaye, 2, 55, which is in the Anuṣṭubh metre and which is meant here.
मूलम्
सो ऽनुष्टुभा ऽऽज्यं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
विश्वास-प्रस्तुतिः
तमाज्ये ऽसीदत् ।
Haug
Death repaired to the Ajya Śastra lurking for Agni.
मूलम्
तमाज्ये ऽसीदत् ।
विश्वास-प्रस्तुतिः
स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
Haug
By beginning (to repeat) the Pra-uga Śastra, he overcame Death (again).
मूलम्
स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
विश्वास-प्रस्तुतिः
तं माध्यंदिने पवमाने ऽसीदत् ।
Haug
At the midday libation, Death sat in the Pavamāna Stotra[10] lurking for Agni.
Haug - Notes
[10]Uchchâ te jâtam andhaso. Sâmaveda Saṁh. 2, 22-29.
मूलम्
तं माध्यंदिने पवमाने ऽसीदत् ।
विश्वास-प्रस्तुतिः
सो ऽनुष्टुभा मरुत्वतीयं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
Haug
By commencing the Marutvatiya Śastra with Anuṣṭubh, he overcame Death.
मूलम्
सो ऽनुष्टुभा मरुत्वतीयं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
विश्वास-प्रस्तुतिः
तं माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम् ।
Haug
Death could not sit, at that libation, in the Bṛihatī verses (repeated by the Hotar at the commencement of the Niṣkevalya Śastra).
मूलम्
तं माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम् ।
विश्वास-प्रस्तुतिः
प्राणा वै बृहत्यः ।
Haug
For the Bṛihatīs are life.
मूलम्
प्राणा वै बृहत्यः ।
विश्वास-प्रस्तुतिः
प्राणानेव तन्नाशक्नोद्व्यवैतुम् ।
Haug
Thus Death could not take away the life.
मूलम्
प्राणानेव तन्नाशक्नोद्व्यवैतुम् ।
विश्वास-प्रस्तुतिः
तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते ।
Haug
This is the reason that the Hotar begins (the Niṣkevalya Śastra) with the Stotriya triplet (corresponding to the Sāman which is sung) in the Bṛihatī metre.
मूलम्
तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते ।
विश्वास-प्रस्तुतिः
प्राणा वै बृहत्यः ।
Haug
The Bṛihatīs are life.
मूलम्
प्राणा वै बृहत्यः ।
विश्वास-प्रस्तुतिः
प्राणानेव तदभिप्रतिपद्यते ।
Haug
By commencing his second Śastra (with Bṛihatīs), he has the preservation of (his) life in view.
मूलम्
प्राणानेव तदभिप्रतिपद्यते ।
विश्वास-प्रस्तुतिः
तं तृतीयपवमाने ऽसीदत् ।
Haug
At the evening libation, Death sat in the Pavamāna Stotra lurking for Agni.
मूलम्
तं तृतीयपवमाने ऽसीदत् ।
विश्वास-प्रस्तुतिः
सो ऽनुष्टुभा वैश्वदेवं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
Haug
By commencing the Vaiśvadeva Śastra with Anuṣṭubh, Agni overcame Death.
मूलम्
सो ऽनुष्टुभा वैश्वदेवं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
विश्वास-प्रस्तुतिः
तं यज्ञायज्ञीये ऽसीदत् ।
Haug
Death repaired to the Yajnā yajnīya Sāman.[11]
Haug - Notes
[11]यज्ञा यज्ञा वो अग्नये । Sâmaveda Saṁh, 2, 53-54.
मूलम्
तं यज्ञायज्ञीये ऽसीदत् ।
विश्वास-प्रस्तुतिः
स वैश्वानरीयेणा ऽऽग्निमारुतं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
Haug
By commencing the Agni-Māruta Śastra, with a hymn addressed to Vaiśvānara, he overcame Death.
मूलम्
स वैश्वानरीयेणा ऽऽग्निमारुतं प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत् ।
विश्वास-प्रस्तुतिः
वज्रोवै वैश्वानरीयं प्रतिष्ठा यज्ञायज्ञीयम् ।
Haug
For the hymn addressed to Vaiśvānara is a weapon; the Yajna yajnīya Sāman is the place.
मूलम्
वज्रोवै वैश्वानरीयं प्रतिष्ठा यज्ञायज्ञीयम् ।
विश्वास-प्रस्तुतिः
वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते ।
Haug
By repeating the Vaiśvānara hymn, he thus turns Death out of his place.
मूलम्
वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते ।
विश्वास-प्रस्तुतिः
स सर्वान्पाशान्सर्वान्स्थाणून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत ।
Haug
Having escaped all the meshes of Death, and his clubs, Agni came off in safety.
मूलम्
स सर्वान्पाशान्सर्वान्स्थाणून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत ।
विश्वास-प्रस्तुतिः
स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद ।
Haug
The Hotar who has such a knowledge, comes off in safety, preserving his life to its full extent, and attains to his full age (of a hundred years).
मूलम्
स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद ।