१४

अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद १४