प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्रा य रुद्रे भ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्त-मभ्युदौहदछावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरछावाकीयामभिति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव
यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते १३