देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शॐसा-वोमित्याह्वयते प्रातःसवने त्र्यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीकॢपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीकॢपतामध्वर्यो शॐसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीकॢपतामुक्थं वाची-न्द्रा येत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीकॢपतामध्वर्यो शोशॐसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीकॢपतामुक्थं वाचीन्द्रा य देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीकॢपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै
तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेद १२