सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानाम्प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेऽन्ततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनुपर्यावर्तन्ते पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते यद्वै तद्देवा यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति न निविदः पदमतीयाद्यन्निविदः पदमतीयाद्यज्ञस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयान्न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञम्मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेन्न निविदः पदे समस्येद्यन्निविदः पदे समस्येद्यज्ञस्य तदायुः सांहारेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्प्रेदम्ब्रह्म प्रेदं क्षत्रमित्येते एव समस्येद्ब्रह्मक्षत्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्रं च संश्रिते न तृचं न चतुरृचमति मन्येत निविद्धानमेकैकं वै निविदः पादमृचं सूक्तम्प्रति तस्मान्न तृचं न चतुरृचमति मन्येत निविद्धानं निविदा ह्येव स्तोत्रमच्छ-स्तम्भवत्येकाम्परिशिष्य तृतीयसवने निविदं दध्याद्यद्द्वे परिशिष्य दध्या-त्प्रजननं तदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यान्न सूक्तेन निविदमतिपद्येत येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तदन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मि-न्निविदं दध्यान्मा प्र गाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते मान्त स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः तमाहुतं नशीमहीति प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति मनो न्वा हुवामहे नाराशंसेन सोमेनेति मनसा वै यज्ञस्तायते मनसा क्रियते सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः