१०

विश्वास-प्रस्तुतिः

गर्भा वा एत उक्थानां यन्निविदः ।

Haug

On the Proper Place of the Nivids in the Three Libations.

The Nivids are the embryos of the Śastras (ukthas).

मूलम्

गर्भा वा एत उक्थानां यन्निविदः ।

विश्वास-प्रस्तुतिः

तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः सम्भवन्ति ।

Haug

At the morning libation, they are put before the Śastras (ukthas), because the embryos are lying in the womb with their heads turned downward, and thus they are born (the head coming first out of the womb).

मूलम्

तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः सम्भवन्ति ।

विश्वास-प्रस्तुतिः

यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः ।

Haug

At the midday libation, the Nivids are put in the midst (of the Śastras). This is done because the embryos have their hold in the middle of the womb.

मूलम्

यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः ।

विश्वास-प्रस्तुतिः

यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतो ऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै ।

Haug

At the evening libation, the Nivids are repeated at the end (of the Śastras), because the embryos are coming down from thence (the womb) when they are brought forth.

मूलम्

यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतो ऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै ।

विश्वास-प्रस्तुतिः

प्रजायते प्रजया पशुभिर्य एवं वेद ।

Haug

He who has such a knowledge is blessed with children and cattle.

मूलम्

प्रजायते प्रजया पशुभिर्य एवं वेद ।

विश्वास-प्रस्तुतिः

पेशा वा एत उक्थानां यन्निविदः ।

Haug

The Nivids are the decorations of the Śastras.

मूलम्

पेशा वा एत उक्थानां यन्निविदः ।

विश्वास-प्रस्तुतिः

तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यात्तादृक्तत् ।

Haug

They are put, at the morning libation, before the Śastras, just as a weaver weaves decorations in the beginning of a cloth.

मूलम्

तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यात्तादृक्तत् ।

विश्वास-प्रस्तुतिः

यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवावप्रज्जनतः पेशः कुर्यात्तादृक्तत् ।

Haug

At the midday libation, they are put in the midst (of the Śastras), just as a weaver weaves decorations in the midst (of a cloth).

मूलम्

यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तत् ।

विश्वास-प्रस्तुतिः

यदन्ततस्तृतीयसवने धीयन्ते यथैवावप्रज्जनतः पेशः कुर्यात्तादृक्तत् ।

Haug

At the evening libation, they are put at the end (of the Śastras), just as the weaver weaves decorations in the end of a cloth (avaprajjana).

मूलम्

यदन्ततस्तृतीयसवने धीयन्ते यथैवावप्रज्जनतः पेशः कुर्यात्तादृक्तत् ।

विश्वास-प्रस्तुतिः

सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद ।

Haug

He who has such a knowledge is ornamented on all parts with the decoration of the sacrifice.

मूलम्

सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद ।