गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानाम्प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः सम्भवन्ति यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृता यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानाम्प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यात्तादृक्तद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्त-द्यदन्ततस्तृतीयसवने धीयन्ते यथैवावप्रज्जनतः पेशः कुर्यात्तादृक्तत्सर्वतो
यज्ञस्य पेशसा शोभते य एवं वेद १०