०९

विश्वास-प्रस्तुतिः

यज्ञो वै देवेभ्य उदक्रामत् ।

Haug

(Etymology of the words Praiṣa, Puroruk, Vedi, Nivid, Graha.)

The sacrifice went away from the gods.

मूलम्

यज्ञो वै देवेभ्य उदक्रामत् ।

विश्वास-प्रस्तुतिः

तं प्रैषैः प्रैषमैच्छन् ।

Haug

They wished it (to return) by means of the Praiṣas.[22]

Haug - Notes

[22]The Praiṣas here alluded to are those used at the animal sacrifice. They correspond to the Prayâja (Aprî) mantras. See the White Yajurveda 21, 29-40.

मूलम्

तं प्रैषैः प्रैषमैच्छन् ।

विश्वास-प्रस्तुतिः

यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम् ।

Haug

That is the reason that the Praiṣas (orders to repeat a mantra given by the Adhvaryu or Mitra Varuṇa to the Hotar) are called so (from pra+iṣ, “to wish”).

मूलम्

यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम् ।

विश्वास-प्रस्तुतिः

तं पुरोरुग्भिः प्रारोचयन् ।

Haug

They made it shine forth (prârochayanti) by means of the Puroruks.

मूलम्

तं पुरोरुग्भिः प्रारोचयन् ।

विश्वास-प्रस्तुतिः

यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम् ।

Haug

Thence the Puroruk is called so (from prârochayanti).

मूलम्

यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम् ।

विश्वास-प्रस्तुतिः

तं वेद्यामन्वविन्दन् ।

Haug

They found it on the Vedi.

मूलम्

तं वेद्यामन्वविन्दन् ।

विश्वास-प्रस्तुतिः

यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम् ।

Haug

Thence this place is called Vedi (from vid, to find).

मूलम्

यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम् ।

विश्वास-प्रस्तुतिः

तं वित्तं ग्रहैर्व्यगृह्णत ।

Haug

After having found it, they caught it with the Grahas;

मूलम्

तं वित्तं ग्रहैर्व्यगृह्णत ।

विश्वास-प्रस्तुतिः

यद्वित्तं ग्रहैर्व्यगृह्णत तद्ग्रहाणां ग्रहत्वम् ।

Haug

thence they are called so (from gṛih, to catch, seize).

मूलम्

यद्वित्तं ग्रहैर्व्यगृह्णत तद्ग्रहाणां ग्रहत्वम् ।

विश्वास-प्रस्तुतिः

तं वित्त्वा निविद्भिर्न्यवेदयन् ।

Haug

Having found it, they announced it to the gods by means of the Nivids.

मूलम्

तं वित्त्वा निविद्भिर्न्यवेदयन् ।

विश्वास-प्रस्तुतिः

यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम् ।

Haug

Thence they are called Nivids (from nivedayati, he announces).

मूलम्

यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम् ।

विश्वास-प्रस्तुतिः

महद्वाव नष्टैष्यभ्यल्पं वेच्छति ।

Haug

A person who wishes to recover something lost, wants either much (of it) or little.

मूलम्

महद्वाव नष्टैष्यभ्यल्पं वेच्छति ।

विश्वास-प्रस्तुतिः

यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति ।

Haug

Among two, the elder (most experienced) wishes for the best (portion).

मूलम्

यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति ।

विश्वास-प्रस्तुतिः

य उ एव प्रैतान्वर्तीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद ।

Haug

He who knows that the Praiṣas are exceedingly strong (give most power), knows (at the same time) that they are the best portion.

मूलम्

य उ एव प्रैतान्वर्तीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद ।

विश्वास-प्रस्तुतिः

नष्टैष्यं ह्येतद्यत्प्रैषाः तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति ।

Haug

The Praiṣas being the desire to recover something lost, he (the Mitra-Varuṇa) repeats them with his head lowered (prahras) (just as supplicants do).

मूलम्

नष्टैष्यं ह्येतद्यत्प्रैषाः तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति ।