०९

यज्ञो वै देवेभ्य उदक्रामत्तम्प्रैषैः प्रैषमैछन्यत्प्रैषैः प्रैषमैछंस्तत्प्रैषाणाम्प्रैषत्वं तम्पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचाम्पुरोरुक्त्वं तं वेद्याम-न्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वं तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद्ग्रहाणां ग्रहत्वं तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निवि-द्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्महद्वाव नष्टैष्यभ्यल्पं वेछति यतरो वाव तयोर्ज्याय इवाभीछति स एव तयोः साधीय इछति य उ एव प्रैषान्वर्षीय-सोवर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यं ह्येतद्यत्प्रैषास्तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति ९