०८

यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवताम्प्रीणाति प्रत्यक्षाद्देवातां यजति वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य-वषट्कृत्य वागित्य-नुमन्त्रयेत स एनं शान्तो न हिनस्ति वषट्कार मा मा प्रमृक्षो माहं त्वा-म्प्रमृक्षम्बृहता मन उपह्वये व्यानेन शरीरम्प्रतिष्ठासि प्रतिष्ठां गछ प्रतिष्ठाम्मा गमयेति वषट्कारमनुमन्त्रयेत तदु ह स्माह दीर्घमेतत्सदप्रभ्वोजः सह ओज इत्येव वषट्कारमनुमन्त्रयेतौजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ प्रियेणैवैनं तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेद वाक्च वै प्राणापानौ च वषट्कारस्त एते वषट्कृतेवषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मायि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ

च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद ८