०७

त्रयो वै वषट्कारा वज्रो धामछद्रि क्तह् स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं-तम्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामछत्तंतम्प्रजाश्च पशवश्चानूपतिष्ठान्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानम्पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्र माद्रि येतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋच-म्ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापी-यान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै

संधीयते प्रजया पशुभिर्य एवं वेद ७