विश्वास-प्रस्तुतिः
वज्रो वा एष यद्वषट्कारः ।
Haug
(On the Meaning of the Vaṣaṭkāra and its Different Parts.)
The Vaṣaṭkāra is a weapon.
मूलम्
वज्रो वा एष यद्वषट्कारः ।
विश्वास-प्रस्तुतिः
यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति ।
Haug
If one has an enemy (and wishes to destroy him), one has only to think of him when making the Vaṣaṭkāra, in order to strike him a blow with a weapon (in the form of the Vaṣaṭkāra).
मूलम्
यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति ।
विश्वास-प्रस्तुतिः
षळिति वषट्करोति ।
Haug
The word ṣaṭ (six) is contained in the formula vau-ṣaṭ[15] (the so-called Vaṣaṭkāra).
Haug - Notes
[15]The etymology which is here given of the word vauṣaṭ is of course quite fanciful. It is only a very much lengthened pronunciation of a conjunctive form rokṣat, of the root vah, to carry, meaning, may he (Agni) carry it (the offering) up. Instead of the original ôk, âu* was substituted.
मूलम्
षळिति वषट्करोति ।
विश्वास-प्रस्तुतिः
षड्वा ऋतव ।
Haug
There are six seasons.
मूलम्
षड्वा ऋतव ।
विश्वास-प्रस्तुतिः
ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयति ।
Haug
Thus he makes the seasons and establishes them.
मूलम्
ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयति ।
विश्वास-प्रस्तुतिः
ऋतून्वै प्रतितिष्ठत इदं सर्वमनु प्रतितिष्ठति यदिदं किंच ।
Haug
He who is established in the seasons becomes afterwards (also) established in all other things.
मूलम्
ऋतून्वै प्रतितिष्ठत इदं सर्वमनु प्रतितिष्ठति यदिदं किंच ।
विश्वास-प्रस्तुतिः
प्रतितिष्ठति य एवं वेद ।
Haug
He who has such a knowledge, obtains a firm footing.
मूलम्
प्रतितिष्ठति य एवं वेद ।
विश्वास-प्रस्तुतिः
तदु ह स्मा ऽऽह हिरण्यदन्बैद ।
Haug
Hiraṇyadan, the son of Beda, said about this (the Vaṣaṭkāra) as follows:
मूलम्
तदु ह स्मा ऽऽह हिरण्यदन्बैद ।
विश्वास-प्रस्तुतिः
एतानि वा एतेन षट्प्रतिष्ठापयति ।
Haug
By this part ṣaṭ (six) of the formula (vauṣaṭ), the Hotar establishes these six (things).
मूलम्
एतानि वा एतेन षट्प्रतिष्ठापयति ।
विश्वास-प्रस्तुतिः
द्यौरन्तरिक्षे प्रतिष्ठिता ऽन्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसि ।
Haug
The sky rests on the air; the air on the earth; the earth on the waters; the waters on the reality (satya); the reality on the Brahma; the Brahma on the concentrated heat of meditation (tapas).
मूलम्
द्यौरन्तरिक्षे प्रतिष्ठिता ऽन्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसि ।
विश्वास-प्रस्तुतिः
इत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वमनु प्रतितिष्ठति यदिदं किंच ।
Haug
If these places are established, then all things are consequently established.
मूलम्
इत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वमनु प्रतितिष्ठति यदिदं किंच ।
विश्वास-प्रस्तुतिः
प्रतितिष्ठति य एवं वेद ।
Haug
He who has such a knowledge has a firm footing.
मूलम्
प्रतितिष्ठति य एवं वेद ।
विश्वास-प्रस्तुतिः
वौषळिति वषट्करोत्यसौ वाव वावृतवः षळ् ।
Haug
The part vāu of the formula vauṣaṭ means the six seasons.
मूलम्
वौषळिति वषट्करोत्यसौ वाव वावृतवः षळ् ।
विश्वास-प्रस्तुतिः
एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति ।
Haug
By repeating the Vaṣaṭkāra, the Hotar places the sacrificer in the seasons, gives him a footing in them.
मूलम्
एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति ।
विश्वास-प्रस्तुतिः
यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति ।
Haug
Just as he does unto the gods, the gods do unto him.
मूलम्
यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति ।