०६

वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्क-ल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षम्पृथिव्याम्पृथिव्यप्स्वापः सत्ये सत्यम्ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै

देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति ६