०५

देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पय-त्यनुवषट्करोति तद्यथादोऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोतीमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति यदेव सोमस्याग्ने वीहीत्य-नुवषट्करोति तेन धिष्ण्यान्प्रीणात्यसंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानु-वषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति यद्वाव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन इव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य

स्विष्टकृद्भागो वषट्करोति ५