विश्वास-प्रस्तुतिः
तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं आग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्या ऽग्नेय्यो ऽनुशस्ता भवन्तीति ।
Haug
(All the Deities of the Pra-uga Śastra are said to be forms of Agni.)
They ask, How (can it be accounted for) that the verses addressed to Agni which the Sāma singers chant,[6] are celebrated by a recitation of the Hotar commencing with a verse addressed to Vāyu, (the rule being) that the Śastra exactly corresponds to the Stotra?
Haug - Notes
[6]The recitation of the Pra-uga Śastra is preceded by the singing of the so-called Ajya-stotra: agna âyâhi vîtaye (Sâma-veda 2, 10-12). The deity of it is Agni, whilst the deities of the Pra-uga Śastra, to which it is said to stand in connection, are different.
मूलम्
तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं आग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्या ऽग्नेय्यो ऽनुशस्ता भवन्तीति ।
विश्वास-प्रस्तुतिः
अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः ।
Haug
(The answer is) Those deities are only the bodies of Agni.
मूलम्
अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः ।
विश्वास-प्रस्तुतिः
स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति ।
Haug
When Agni is blazing up, as it were, that is his Vāyu (wind) form. Thus he celebrates by means of this (Vāyu form) that (Agni form).
मूलम्
स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रुपं तदस्य तेनानुशंसति ।
Haug
Divided into two halves, the fire burns. Indra and Vāyu are two. That is his Indra-Vāyu form. Thus he celebrates by means of this (Indra-Vāyu form) that (Agni form).
मूलम्
अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रुपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति ।
Haug
It moves up and down (when being lighted or extinguished); this is his Mitra-Varuṇa form. Thus he celebrates by means of this (Mitra-Varuṇa form) that (Agni form).
मूलम्
अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपम् ।
Haug
The dangerous touch[7] of Agni is his Varuṇa form.
Haug - Notes
[7]Ghora-sams parśa. See the Kauṣitaki Brâhmaṇam 1, 1, where Agni says: अहं घोरसंस्पर्शतमो ऽस्मि.
मूलम्
स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपम् ।
विश्वास-प्रस्तुतिः
तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति ।
Haug
His Mitra form is (shown in the fact) that men who make friends with him may sit near him, though his touch be dangerous. Thus he celebrates by means of these (Mitra and Varuṇa forms) that (Agni form).
मूलम्
तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्या ऽऽश्विनं रूपं तदस्य तेनानुशंसति ।
Haug
His Aśvina form is that they produce him by friction through two arms and two wooden sticks, the Aśvins being two. Thus he celebrates by means of this (Aśvina form) that (Agni form).
मूलम्
अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्या ऽऽश्विनं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति ।
Haug
That he burns with a loud crackling voice, imitating the sound bababā, as it were, on account of which all beings flee trembling from him. This is his Indra form. Thus the Hotar celebrates by means of the (Indra form) that (Agni form).
मूलम्
अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति ।
Haug
That they divide him into many parts (when taking fire from the hearth), though he is only one. This is his Viśve Devāḥ form. Thus the Hotar celebrates by means of this (Viśve Devāḥ form) that (Agni form).
मूलम्
अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति ।
Haug
That he burns with a roaring noise, uttering speech, as it were. This is his Sarasvati form. Thus the Hotar celebrates by means of this (Sarasvati form) that (Agni form).
मूलम्
अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति ।
विश्वास-प्रस्तुतिः
एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियो ऽनुशस्तो भवति ।
Haug
In this way, the triplet of the Sāma singers[8] becomes celebrated, notwithstanding these (different) deities in the several triplets, for him who thus has commenced (the Śastra) with a verse addressed to Vāyu.
Haug - Notes
[8]The Ajya Stotra, see note 1. It consists of three verses.
मूलम्
एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियो ऽनुशस्तो भवति ।
विश्वास-प्रस्तुतिः
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति ।
Haug
Having repeated the Śastra addressed to all the gods[9] (Pra-uga), he recites a Yājyā mantra addressed to the Viśve Devāḥ (all gods) : viśvebhiḥ somyan madhvagna (1, 14, 10). Thus he satisfies all deities, giving to each his due share.
Haug - Notes
[9] The Pra-uga Śastra is here called vaiśvadevam, i.e., belonging to all the gods, on account of the large number of deities, comprising the Viśve Deváḥ contained in it.
मूलम्
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति ।