०४

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगाः स्तुवते वायव्यया होता प्रतिपद्यते कथमस्य आग्नेय्योऽनुशस्ता भवन्तीत्यग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसत्यथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्र वायु तदस्यैन्द्र वायवं रुपां तदस्य तेनानुशंसत्यथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तम्मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसत्यथ यदेनं द्वाभ्याम्बाहुभ्यां द्वाभ्यामरणीभ्याम्मन्थन्ति द्वौ वा अश्विनौ तदस्याश्विनं रूपं तदस्य तेनानुशंसत्यथ यदुच्चैर्घोषः स्तनयन्बबबाकुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसत्यथ यदेनमेकं सन्तम्बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसत्यथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसत्येवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेनतृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति विश्वेभिः सोम्यम्मध्वग्न इन्द्रे ण वायुना पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं

शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति ४