०३

विश्वास-प्रस्तुतिः

प्राणानां वा एतदुक्थं यत्प्रउगम् ।

Haug

(The Hotar has it in his power to deprive the Sacrificer of his life, &c., by not repeating the several parts of the Pra-uga Śastra in the proper way.)

This Pra-uga Śastra represents the vital airs.

मूलम्

प्राणानां वा एतदुक्थं यत्प्रउगम् ।

विश्वास-प्रस्तुतिः

सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः ।

Haug

The Hotar addresses this recitation to seven deities. For there are seven vital airs in the head.

मूलम्

सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः ।

विश्वास-प्रस्तुतिः

शीर्षन्नेव तत्प्राणान्दधाति ।

Haug

By doing so, the Hotar places the vital airs in the head (of the sacrificer).

मूलम्

शीर्षन्नेव तत्प्राणान्दधाति ।

विश्वास-प्रस्तुतिः

किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्मा ऽऽह यो ऽस्य होता स्यादिति ।

Haug

There is the question asked, Whether the Hotar might be able to produce woe as well as happiness to the sacrificer? (The answer is)

मूलम्

किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्मा ऽऽह यो ऽस्य होता स्यादिति ।

विश्वास-प्रस्तुतिः

अत्रैवैनं यथा कामयेत तथा कुर्यात् ।

Haug

He who might be the Hotar of the sacrificer at that time (when the Pra-uga Śastra is to be repeated) can do with him what he pleases.

मूलम्

अत्रैवैनं यथा कामयेत तथा कुर्यात् ।

विश्वास-प्रस्तुतिः

यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

If he think, “I will separate him from his vital airs,” he need only repeat the triplet addressed to Vāyu confusedly, or forego a pada,

मूलम्

यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धं प्राणेनैवैनं तद्व्यर्धयति ।

Haug

by which means the (several parts of the) triplet become confused. In this manner, he separates him (the sacrificer) whom he wishes so to separate, from his vital airs.

मूलम्

तेनैव तल्लुब्धं प्राणेनैवैनं तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

Should he think, “I will separate him from his prāṇa and apāna,” he need only repeat the triplet addressed to Indra-Vāyu confusedly, or forego a pada.

मूलम्

यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति ।

Haug

In this way, the triplet becomes confused, and he thus separates the sacrificer, whom he wishes so to separate, from his prāṇa and apāna.

मूलम्

तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

Should he think, “I will separate the sacrificer from his eye,” he need only repeat the triplet addressed to Mitra-Varuṇa confusedly, or forego a pada.

मूलम्

यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति ।

Haug

In this way the triplet becomes confused, and he thus separates the sacrificer, whom he wishes so to separate, from his eye.

मूलम्

तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

Should he think, “I will separate him from the sense of hearing,” he need only repeat the triplet addressed to the Aśvins confusedly, or forego a pada.

मूलम्

यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति ।

Haug

In this way, he confuses the triplet and separates him from his hearing, whom he wishes to separate.

मूलम्

तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

Should he think, “I will separate him from his strength,” he need only repeat the triplet addressed to Indra confusedly, or forego a pada.

मूलम्

यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति ।

Haug

In this way, the triplet becomes confused, and he separates him, whom he wishes so to separate, from his strength.

मूलम्

तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

Should he think, “I will separate him from his limbs,” he need only repeat the triplet addressed to the Viśve Devāḥ confusedly, or forego a pada.

मूलम्

यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति ।

Haug

In this way, the triplet becomes confused, and he separates the sacrificer, whom he wishes so to separate, from his limbs.

मूलम्

तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

Haug

Should he think, “I will separate him from his speech,” he need only repeat the triplet addressed to Sarasvatī confusedly, or forego a pada.

मूलम्

यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वा ऽतीयात् ।

विश्वास-प्रस्तुतिः

तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति ।

Haug

In this way, the triplet becomes confused, and he separates the sacrificer, whom he wishes so to separate, from his speech.

मूलम्

तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति ।

विश्वास-प्रस्तुतिः

यमु कामयेत सर्वैरेनमङ्गैः सर्वेणा ऽऽत्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुकॢप्तं शंसेत् ।

Haug

Should he think, “I will keep him joined with all his limbs and his soul,” he ought to repeat the triplet, as it was first told (to him by his master) in the right way.

मूलम्

यमु कामयेत सर्वैरेनमङ्गैः सर्वेणा ऽऽत्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुकॢप्तं शंसेत् ।

विश्वास-प्रस्तुतिः

सर्वैरेवैनं तदङ्गैः सर्वेणा ऽऽत्मना समर्धयति ।

Haug

Thus he keeps him joined with all his limbs and his whole soul.

मूलम्

सर्वैरेवैनं तदङ्गैः सर्वेणा ऽऽत्मना समर्धयति ।

विश्वास-प्रस्तुतिः

सर्वैरङ्गैः सर्वेणा ऽऽत्मना समृध्यते य एवं वेद ।

Haug

He who has such a knowledge remains joined with all his limbs and the whole soul.

मूलम्

सर्वैरङ्गैः सर्वेणा ऽऽत्मना समृध्यते य एवं वेद ।