प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षौ प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्र माद्रि येतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धम्प्रणेनैवैनं तद्व्य-र्धयति यङ्कामयेत प्रानापानाभ्यामेनं व्यर्धयानीत्यैन्द्र वायवमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धम्प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचम्वा पदं वातीयात्तेनैव तल्लुब्धं चक्षुषैवैनन्तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्र मस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धं वीर्येनैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्ध-मङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजु कॢप्तं शंसेत्स-र्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं
वेद ३